२६६ कुम्भीश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुम्भीश्वरमनुत्तमम् ॥
शरभस्थानतः पूर्वे नातिदूरे व्यवस्थितम् ॥
तं दृष्ट्वा मानवो देवि मुच्यते सर्वपातकैः ॥१॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुम्भीश्वरमाहात्म्यवर्णनन्नाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६६ ॥