२६५ कनकनन्दामाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि ऐशान्यां दिशि संस्थिताम् ॥
देवीं कनकनन्दाख्यां सर्वकामफलप्रदाम्॥ १ ॥
तत्र शुक्लतृतीयायां चैत्रे मासि विधानतः ॥
यात्रां कुर्याच्च मतिमान्सर्वकाममवाप्नुयात् ॥ २ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कनकनन्दामाहात्म्यवर्णनन्नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः॥ ॥ २६५ ॥