२६४ नन्दिनीगुफामाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थिता देवि गुफा पातकनाशिनी ॥
ऋषीणां संस्थितिर्यत्र सिद्धानां पुण्यचेतसाम् ॥ १ ॥
तत्र गत्वा महादेवि गुफां यः पश्यते नरः ॥
स मुक्तः सर्वपापेभ्यश्चान्द्रायणफलं लभेत्॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नन्दिनीगुफामाहात्म्यवर्णनन्नाम चतुःषष्ट्यु त्तरद्विशततमोऽध्यायः ॥ २६४ ॥