२६३ माहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि च्छायालिङ्गमिति स्मृतम् ॥
उत्तरे न्यङ्कुमत्याश्च बह्वाश्चर्यं महत्फलम् ॥ १ ॥
तं दृष्ट्वा मानवो देवि मुच्यते पञ्चपातकैः ॥
सार्द्धद्वादशहस्तं तु योजनत्रितयेन तु ॥
न पश्यन्ति महादेवि पापिष्ठा ये तु मानवाः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये छायालिङ्ग माहात्म्यवर्णनन्नाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६३ ॥