॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यत्र न्यङ्कुमती नदी ॥
मर्यादार्थं समानीता क्षेत्रशान्त्यै च शम्भुना ॥ १ ॥
तस्यैव दक्षिणे भागे सर्वपापप्रणाशिनी ॥
तस्यां स्नात्वा च वै सम्यग्यः श्राद्धं कुरुते नरः ॥
स पितॄंस्तारयेत्सर्वान्नरकान्नात्र संशयः ॥ २ ॥
वैशाखे शुक्लपक्षे तु तृतीयायां च भामिनि ॥
स्नात्वा तु तर्पयेद्भक्त्या तिलदर्भजलैः प्रिये ॥
श्राद्धं कृतं भवेत्तेन गङ्गायां नात्र संशयः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यङ्कुमतीमाहात्म्यवर्णनन्नामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६१ ॥