॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्सर्वपातकनाशनम् ॥
घण्टेश्वरमिति ख्यातं देवदानववन्दितम् ॥
पूजितं ह्यृषिभिः सिद्धैर्वाञ्छितार्थफलप्रदम् ॥ १ ॥
वारे सोमस्य चाष्टम्यां यस्तं पूजयते नरः ॥
स लभेद्वाञ्छितान्कामान्मुक्तः स्यात्पातकेन हि ॥२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये घण्टेश्वरमाहारत्म्यवर्णनन्नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥