॥ ईश्वर उवाच.॥ ॥
ततो गच्छेन्महादेवि लिङ्गं त्रैलोक्यविश्रुतम् ॥
तत्र शङ्करनाथेति प्रसिद्धं पापनाशनम् ॥ ॥ १ ॥
स्थापितं भानुना देवि कृत्वा तत्र महत्तपः ॥
तमर्चयित्वा देवेशं सोपवासो महेश्वरम्॥ २ ॥
ब्राह्मणान्भोजयेत्तत्र श्राद्धं कुर्याज्जितेन्द्रियः ॥
शक्त्या हिरण्यं वासांसि विप्रे दद्यात्समाहितः ॥
स याति परमं स्थानं नात्र कार्या विचारणा ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शङ्करनाथमाहात्म्यवर्णनन्नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥