२५१ शङ्करादित्यमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शङ्करादित्यमुत्तमम् ॥
गङ्गेश्वरस्य पूर्वेण शङ्करेण प्रतिष्ठितम् ॥ १ ॥
षष्ठ्यां चैव तु शुक्लायामेनं यः पूजयिष्यति ॥
गमिष्यति परं स्थानं यत्र देवो दिवाकरः ॥ २ ॥
रक्तचन्दनमिश्रैश्च रक्तपुष्पैः समाहितः ॥
ताम्रपात्रे समाधाय योऽर्घ्यं दास्यति मानवः ॥
स यास्यति परां सिद्धिं न च याति दरिद्रताम्॥ ३ ॥
तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे वरानने ॥
पूजयेच्छङ्करादित्यं सर्वकामफलप्रदम् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शङ्करादित्यमाहात्म्यवर्णनन्नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१ ॥