२५० गङ्गेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं त्रैलोक्यविश्रुतम् ॥
गङ्गेश्वरेति विख्यातं सङ्गमेश्वरपश्चिमे ॥ १ ॥
यदा गङ्गा समाहूता विष्णुना प्रभविष्णुना ॥
अन्तकालेऽभिषेकार्थं स्वकायस्य वरानने ॥ २ ॥
ततो दृष्ट्वा तु तत्क्षेत्रं पुण्यं ह्यृषिनिषेवितम् ॥
सर्वत्र व्यापितं लिङ्गैराश्रमैश्च तपस्विनाम् ॥ ३ ॥
ततो गङ्गासरिच्छ्रेष्ठा पूर्वसागरगामिनी ॥
स्थापयामास तल्लिङ्गं शिवभक्तिपरायणा ॥ ४ ॥
तं दृष्ट्वा तु वरारोहे गङ्गास्नानफलं लभेत् ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गङ्गेश्वरमाहात्म्यवर्णनन्नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५० ॥