॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं वै सङ्गमेश्वरम् ॥
गोलक्षमिति विख्यातं सर्वपातकनाशनम् । १ ॥
तस्यैव पश्चिमे भागे सर्वकामफलप्रदम् ॥
ऋषिरुद्दालकोनाम पुरा ह्यासीन्महातपाः ॥ २ ॥
स पुरा सङ्गमं प्राप्य सर्वपापप्रणाशनम् ॥
सरस्वत्याश्च पिङ्गायास्तपस्तेपे सुरेश्वरि ॥ ३ ॥
ततस्तपस्यतस्तस्य तपो रौद्रं महात्मनः ॥
पुरतो ह्युत्थितं लिङ्गं भक्त्या युक्तस्य सुन्दरि ॥ ४ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
उद्दालक महाबाहो शृणुष्वैतद्वचो मम ॥ ५ ॥
अद्यप्रभृति वासोऽत्र मम नित्यं भविष्यति ॥
यस्मादत्र समुत्पन्नं सङ्गमे लिङ्गमुत्तमम् ॥
सङ्गमेश्वरमित्येव नाम चास्य भवि ष्यति ॥ ६ ॥
येत्र स्नानं नराः कृत्वा सङ्गमे लोकविश्रुते ॥
सङ्गमेश्वरमीक्षन्ते ते यान्ति परमां गतिम् ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
ततस्तं पूजयामास दिवारात्रमतन्द्रितः ॥
ततो देहावसानेऽसौ गतो यत्र महेश्वरः ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे ,प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सङ्गमेश्वरमाहात्म्यवर्णनन्नामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥