२४७ पिङ्गलादित्यपिङ्गादेवीशुक्रेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्सूर्यं पापप्रणाशनम् ॥
तथा च पिङ्गलां देवीं पार्वतीरूपधारिणीम् ॥ १ ॥
तृतीयायां विशेषेण ह्युपवासं करोति यः ॥
सर्वान्कामानवाप्नोति धनवान्पुत्रवान्भवेत् ॥ २ ॥
तत्रैव संस्थितं पश्येच्छुकेश्वरमिति श्रुतम् ॥
तं दृष्ट्वा मानवो देवि मुक्तः स्यात्सर्वपातकैः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पिङ्गलादित्यपिङ्गादेवीशुक्रेश्वरमाहात्म्यवर्णनन्नाम सप्तचत्वारिम्श दुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥