॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेत्रपालं महाप्रभम् ॥
ईशाने संस्थितं देवं मन्त्रमालाविभूषितम् ॥ १ ॥
हिरण्यातटमाश्रित्य रक्षार्थं समुपस्थितम् ॥
तत्रैव हीरकं क्षेत्रं तस्मिन्रक्षां करोति सः ॥ २ ॥
कृष्णपक्षे त्रयोदश्यां तत्र तं पूजयेन्नरः ॥
गन्धपुष्पोपहारैश्च तथा बलि निवेदनैः ॥ ३ ॥
एवं सम्पूजितो देवः सर्वकामप्रदो भवेत् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मन्त्रावलिक्षेत्रपालमाहात्म्यवर्णनन्नाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४३ ॥