२३८ हिरण्यानदीमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि हिरण्यां पापनाशिनीम् ॥
सर्वकामप्रदां पुण्यां दारिद्र्यस्यान्तकारिणीम् ॥ १ ॥
तत्र स्नात्वा विधानेन कृत्वा पिण्डोदक क्रियाम् ॥
प्राप्नुयादक्षयाल्ँलोकान्पितॄनुद्धृत्य पापतः ॥२॥
एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम् ॥
तेनायुतसहस्रं हि भोजितं स्याद्द्विजन्मनाम् ॥ ॥ ३ ॥
तत्र हेमरथा देयो ब्राह्मणे वेदपारगे ॥
विधिना शिवमुद्दिश्य यात्रायुतफलं लभेत् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये हिरण्यानदीमाहात्म्यवर्णनन्नामाष्टात्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३८ ॥