॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येल्लिङ्गत्रयमनुत्तमम् ॥
शतमेधं सहस्रमेधं कोटिमेधमिति क्रमात् ॥ १ ॥
दक्षिणे शतमेधं तु शतयज्ञफलप्रदम् ॥
कार्तवीर्य्येण तत्रैव कृतं यज्ञशतं पुरा ॥ २ ॥
प्रतिष्ठाप्य महालिङ्गं सर्वपातकनाशनम् ॥
मध्यभागेऽत्र यल्लिङ्गं कोटिमेधेति विश्रुतम् ॥ ३ ॥
तत्रेष्टा ब्रह्मणा पूर्वं कोटि सङ्ख्या मखोत्तमाः ॥
संस्थाप्य तु महादेवं शङ्करं लोकशङ्करम ॥ ४ ॥
तस्य उत्तरभागस्थं सहस्रक्रतुसञ्ज्ञकम् ॥
शक्रश्च देवराजोऽपि सहस्रं यष्टवान्क्रतून् ॥ ५ ॥
प्रतिष्ठाप्य महालिङ्गं देवानामादिदैवतम् ॥
गन्धपुष्पादिविधिना पञ्चामृतरसोदकैः ॥ ६ ॥
स प्राप्नुयात्फलं देवि लिङ्गनामोद्भवं क्रमात् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥७॥
दशलक्षाणि तीर्थानां तत्र तिष्ठन्ति भामिनि ॥
लिङ्गत्रयं तथा मध्ये सर्वपातकनाशनम् ॥ ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्ये शतमेधादि लिङ्गत्रयमाहात्म्यवर्णनन्नाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३५ ॥