॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥
दशाश्वमेधिकन्नाम महापातकनाशनम् ॥ १ ॥
वाजिमेधः पुरा चेष्टं दशभिस्तत्र भामिनि ॥
भरतेन समागत्य मत्वा क्षेत्रमनुत्तमम् ॥ २ ॥
तत्र तृप्तः सहस्राक्षः सोमनाथेन भामिनि ॥
कृपणाः खानपानैश्च दक्षिणाभिर्द्विजातयः ॥ ३ ॥
अथोचुस्त्रिदशाः सर्वे सुप्रीता भरतं नृपम् ॥
तुष्टास्तव महाबाहो यज्ञैः सन्तर्पिता वयम् ॥
वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्त्तते ॥ ४. ॥
॥ राजोवाच ॥ ॥
अत्रागत्य नरो भक्त्या यः स्नानं कुरुते नरः ॥
दशानामश्वमेधानां स प्राप्नोतु फलं शुभम् ॥. ५ ॥
॥ देवा ऊचुः ॥ ॥
दशानामश्वमेधानां श्रद्धया फलमाप्स्यति ॥
दशाश्वमेधिकन्नाम तीर्थमेतन्महीतले ॥
ख्यातिं यास्यति राजेन्द्र नात्र कार्या विचारणा ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
ततः प्रभृति तत्तीर्थं प्रख्यातं धरणीतले ॥
दशाश्वमेधिकमिति सर्वपापप्रणाशनम् ॥ ७ ॥
ऐन्द्रवारुणमाश्रित्य गोमुखादाऽऽश्वमेधिकम् ॥
अत्रान्तरे महादेवि शिवक्षेत्रं विदुर्बुधाः ॥ ८ ॥
सर्वपापहरं दिव्यं स्वर्गसोपानसन्निभम् ॥
सपादकोटितीर्थानां स्थानं तत्परिकीर्तितम ॥ ९ ॥
प्राणत्यागे कृते तत्र शिवलोके च मोदते ॥
तिर्यग्योनिगताः पापा कीटपक्षिमृगादयः ॥ 7.1.234.१० ॥
तेऽपि यान्ति परं स्थानं यत्र देवो महेश्वरः ॥
तिलोदकप्रदानेन मातृकाः पैतृकास्तथा ॥ ११ ॥
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ॥
तत्रेष्टा ब्रह्मणा पूर्वमसङ्ख्याता मखोत्तमाः ॥ १२ ॥
शक्रश्च देवराजत्वे तत्रेष्ट्वा समवाप्तवान् ॥
कार्त्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा ॥ १३ ॥
एवं तत्प्रवरं स्थानं क्षेत्रगर्भान्तिकं प्रिये ॥
मृतानां तत्र जन्तूनामपुनर्भवदायकम् ॥ १४ ॥
वृषोत्सर्गं तु यस्तत्र कुर्याद्वै भावितात्मवान् ॥
यावन्ति वृषरोमाणि तावत्स्वर्गे महीयते ॥ १५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये दशाश्वमेधमाहत्म्यवर्णनन्नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३४ ॥