२३३ पाण्डवेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तत्रैव पूजयेद्देवि पञ्च लिङ्गानि भावितः ॥
प्रतिष्ठितानि देवेशि पाण्डवैश्च महात्मभिः ॥ १ ॥
यस्तान्पूजयते भक्त्या स मुक्तः पातकैर्भवेत् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पाण्डवेश्वरमाहात्म्यवर्णनन्नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३३ ॥