२२९ गङ्गामाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गङ्गां त्रिपथगामिनीम् ॥
अनरकेशतो देवि ऐशान्यां दिशि संस्थिताम् ॥ १ ॥
स्वयम्भूतां धरामध्यादानीतां विष्णुना पुरा ॥
यादवानां तु मुक्त्यर्थं सर्वपापोपशान्तये ॥ २ ॥
यस्तत्र कुरुते स्नानं कथञ्चित्पुण्यसञ्चयात् ॥
श्राद्धं चैव विधानेन न स शोचेत्कृताकृते ॥ ३ ॥
ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ॥
तत्पुण्यं प्राप्नुयाद्देवि कार्तिक्यां जाह्नवीजले ॥ ४ ॥
कलौ युगे तु सम्प्राप्ते दुर्ल्लभं तत्र दर्शनम्॥
किं पुनः स्नानदानं तु प्रभासे जाह्नवीजले ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गङ्गामाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥