॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि मातृस्थानमनुत्तमम् ॥
भैरवेशेति विख्यातं सर्वभयविनाशनम् ॥ १ ॥
चतुर्दश्यां विधानेन कृष्णपक्षे यतात्मवान् ॥
पूजयेद्गन्धपुष्पैश्च बलिदानैस्तथोत्तमैः ॥ २ ॥
तं पुत्रमिव योगिन्यो रक्षन्ति भुवि मातरः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये भैरवेश्वरमातृगणमाहात्म्यवर्णनन्नामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२८ ॥ ॥ छ ॥