२२६ मेघेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वभागे तु नैर्ऋते पापमोचनात् ॥
मेघेश्वरेति विख्यातं सर्वपातकनाशनम् ॥ १ ॥
अनावृष्टिभये जाते शान्तिं तत्रैव कारयेत् ॥
वारुणीं विप्रमुख्यैस्तु भावयेदुदकैर्महीम् ॥ २ ॥
मेघैः प्रतिष्ठितं लिङ्गं यत्र नित्यं प्रपूज्यते ॥
अनावृष्टिभयं किञ्चिन्न च तत्र प्रजायते ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मेघेश्वरमाहात्म्यवर्णनन्नाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२६ ॥ ॥