॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं लिङ्गं रुक्मवत्या प्रतिष्ठितम्॥
सर्वपापोपशमनं सर्वकामफलप्रदम्॥ १ ॥
तत्र स्नात्वा महातीर्थे लिङ्गं सम्प्लाव्य यत्नतः ॥
विप्रेभ्यो दापयेद्वित्तं मुच्यते सर्वपातकैः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मवतीश्वरमाहात्म्यवर्णनन्नाम द्वाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२२ ॥