॥ ॥ ईश्वर उवाच ॥ ॥
तत्रैव मानवं लिङ्गं मनुना सम्प्रतिष्ठितम् ॥
पूर्वं हत्वा सुतं देवि मनुः पापसमन्वितः ॥ १ ॥
क्षेत्रं पापहरं ज्ञात्वा तत्र प्रातिष्ठदीश्वरम्॥
मुक्तश्चैवाभवत्पापात्तस्मात्पुत्रवधोद्भवात्॥२॥
पूजयेन्मानवो यस्तु स मुक्तः पातकैर्भवेत् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मानवेश्वरमाहात्म्यवर्णनन्नामाष्टादशोत्तरद्विशततमोऽध्यायः ॥२१८॥ ॥