२१७ देवराजेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
गौतमेश्वरतो देवि पश्चिमे नातिदूरतः ॥
धनुःषोडशभिर्देवि देवराजेश्वरः स्थितः ॥ १ ॥
लिङ्गं स स्थापयामास ततः पापैर्व्यमुच्यत ॥
यस्तं समाहितमनाः पूजयिष्यति मानवः ॥
स च मानवसम्भूतात्पातकात्सम्प्रमोक्ष्यति ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवराजेश्वरमाहात्म्यवर्णनन्नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥२१७॥