॥ ईश्वर उवाच॥ ॥
मार्कण्डेश्वरतो देवि उत्तरे लिङ्गमुत्तमम्॥
धनुषां पञ्चदशभिर्गौतमेश्वरनामकम् ॥ १ ॥
गुरुं हत्वा पुरा देवि गौतमः पापदुःखितः ॥
तत्र लिङ्गं प्रतिष्ठाप्य तस्मात्पापाद्व्यमुच्यत ॥ २ ॥
यस्तत्र कपिलां दद्यात्स्नात्वा नद्यां विधानतः ॥
सम्पूज्य विधिवल्लिङ्गं मुच्यते पञ्चपातकैः ॥३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनन्नाम षोडशोत्तरद्विशततमोऽध्यायः ॥२१६॥ ॥