ईश्वर उवाच॥
क्रत्वीशात्पूर्वदिग्भागे धनुःषोडशकान्तरे॥
कश्यपेश्वरनामानं महापातकनाशनम् ॥ १ ॥
तं दृष्ट्वा मानवो देवि धनवान्पुत्रवान्भवेत् ॥
सर्वपातकयुक्तोऽपि मुच्यते नात्र संशयः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कश्यपेश्वरमाहात्म्यवर्णनन्नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥ ॥