ईश्वर उवाच ॥ ॥
पुलहेश्वरात्ततो देवि नैर्ऋते धनुषाष्टके ॥
क्रत्वीश्वरेतिनामानं महाक्रतुफलप्रदम् ॥१॥
तं दृष्ट्वा मानवो देवि पौण्डरीकफलं लभेत् ॥
सप्तजन्मनि दारिद्र्यं न दुःखं तत्र जायते ॥२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्रत्वीश्वरमाहात्म्यवर्णनन्नाम द्वादशोत्तरद्विशततमोऽध्यायः॥ २१२॥