॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुलस्त्येश्वरमुत्तमम् ॥
मार्कण्डेयोत्तेरे भागे धनुषां पञ्चके स्थितम् ॥ १ ॥
तं दृष्ट्वा मानवो देवि पूजयित्वा विधानतः ॥
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुलस्त्येश्वरमाहात्म्यवर्णनन्नाम दशोत्तरद्विशततमोऽध्यायः ॥ २१० ॥