१९४ प्रभासक्षेत्रमाहात्म्येऽमरेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं देवैः प्रतिष्ठितम् ॥
ज्ञात्वा प्रभावं क्षेत्रस्य सर्वपातकनाशनम् ॥ १ ॥
तत्र कृत्वा तपश्चोग्रं लिङ्गं देवैः प्रतिष्ठितम् ॥
तं दृष्ट्वा मानवो देवि कृतकृत्यः प्रजायते ॥ २ ॥
गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥
सम्यक्च लभते देवि यात्रायाः फलमूर्जितम् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽमरेश्वरमाहात्म्यवर्णनन्नाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥ १९४ ॥