॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यमेश्वरमनुत्तमम् ॥
तस्यैव नैर्ऋते भागे नातिदूरे व्यवस्थितम् ॥ १ ॥
दर्शनात्पापशमनं सर्वकामफलप्रदम् ॥ ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरमाहात्म्यवर्णनं नाम त्रिणवत्युत्तरशततमोऽध्यायः ॥ १९३ ॥