॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विश्वकर्मप्रतिष्ठितम् ॥
लिङ्गं महाप्रभावं हि मोक्षस्वामिन उत्तरे ॥ १ ॥
धनुषां पञ्चके देवि स्थितं पातकनाशनम् ॥ २ ॥
तं दृष्ट्वा मानवः सम्यग्यात्राफलमवाप्नुयात् ॥
वाचिकं मानसं पापं दर्शनात्तस्य नश्यति ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विश्वकर्मेश्वरमाहात्म्यवर्णनन्नाम द्विनवत्युत्तरशततमोऽध्यायः ॥ १९२ ॥