॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अजीगर्तेश्वरं हरम् ॥
चन्द्रवापीसमीपस्थं कर्ममोटीसमीपतः ॥ १ ॥
तस्यां स्नात्वा महादेवि यस्तल्लिगं प्रपूजयेत् ॥
स मुक्तः पातकैर्घोरैर्गच्छेच्छिवपदं महत् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजीगर्तेश्वरमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ॥ १९१ ॥