१८९ कर्ममोटीमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्यैव पश्चिमे भागे नातिदूरे व्यवस्थितम् ॥
चण्डिका कर्ममोटी च योगिनी कोटिसंयुता ॥
पीठत्रयं महादेवि आद्यं त्रैलोक्यवन्दितम् ॥ १ ॥
नवम्यां तत्र सम्पूज्य देवीपीठं च योगिनीम् ॥
स सर्वान्प्राप्नुयात्कामान्भवेत्स्वर्गाङ्गनाप्रियः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये कर्ममोटीमाहात्म्यवर्णनन्नामैकोननवत्युत्तरशततमोऽध्यायः ॥ १८९ ॥