१८८ रुद्रेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम् ॥
रुद्रेश्वरेतिनामानं स्वयम्भूतं धरातले ॥ १ ॥
आदिप्रभासात्पुरतो धनुषां त्रितये स्थितम् ॥
रुद्रेण ध्यानमास्थाय स्वं तेजस्तत्र योजितम् ॥ २ ॥
ततो रुद्रेश्वरन्नाम सर्वपातकनाशनम् ॥
तं दृष्ट्वा पूजयित्वा च सर्वान्कामानवाप्नुयात् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुद्रेश्वरमाहात्म्यवर्णनन्नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥ १८८ ॥