१८६ स्थानमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि नागस्थानमनुत्तमम् ॥
मङ्कीशात्पश्चिमे भागे सङ्गमत्रितयं गतम् ॥ १ ॥
पापघ्नं सर्वजन्तूनां पातालविवरं महत् ॥ २ ॥
बलभद्रः पुरा देवि श्रुत्वा कृष्णस्य पञ्चताम् ॥
भल्लतीर्थे तु भल्लेन ततः प्रभासमागतः ॥ ३ ॥
क्षेत्रं महाप्रभावं हि ज्ञात्वा सर्वार्थसिद्धिदम् ॥
यादवानां क्षयं कृत्वा ततो वैराग्यमेयिवान् ॥ ॥ ४ ॥
शेषनागेशरूपेण निष्क्रम्य च शरीरतः ॥
गच्छन्गच्छंस्तदा प्राप्य तीर्थं त्रैसङ्गमं परम् ॥ ५ ॥
पातालस्य तदा दृष्ट्वा द्वारं विवररूपकम् ॥
प्रविष्टोऽथ जगामाशु यत्रानन्तः स्वयं स्थितः ॥ ६ ॥
यतो नागस्वरूपेण स्थानेऽस्मिंश्च समाविशत् ॥
तत्प्रभृत्येव देवेशि नागस्थानमिति श्रुतम् ॥ ७ ॥
नागरादित्यपूर्वेण यत्र कायो विसर्जितः ॥
तदद्यापि प्रसिद्धं वै शेषस्थानमिति श्रुतम् ॥ ८ ॥
अतः स्नात्वा महादेवि तत्र तीर्थे त्रिसङ्गमे ।
नागस्थानं समभ्यर्च्य पञ्चम्यामकृताशनः ॥९॥
श्राद्धं कृत्वा यथाशक्त्या दत्त्वा विप्राय दक्षिणाम् ॥
विमुक्तः सर्वदुःखेभ्यो रुद्रलोकं स गच्छति ॥ १० ॥
पायसं मधुसम्मिश्रं भक्ष्यभोज्यैः समन्वितम् ॥
शेषनागं समुद्दिश्य विप्रं यस्तत्र भोजयेत् ॥
कोटिभोज्यं कृतं तेन जायते नात्र संशयः ॥ ११ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नाग स्थानमाहात्म्यवर्णनन्नाम षडशीत्युत्तरशततमोऽध्यायः ॥ १८६ ॥