॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवमातरमव्ययाम् ॥
मङ्कीशान्नैर्ऋते भागे गौरीरूपसमाश्रिताम्॥
देवमाता सरस्वत्या नाम लोकेषु गीयते ॥ १ ॥
पादुकासनसंस्था च तत्र देवी सरस्वती ॥
गौरीरूपेण सा तत्र वडवाश्रितविग्रहा ॥ २ ॥
मातृवद्रक्षिता देवा वडवानलभीतितः ॥
देवमातेति लोकेऽस्मिं स्ततः सा विबुधैः कृता ॥ ३ ॥
माघे मासे तृतीयायां यस्तामर्चयते नरः ॥
नारी वा संयता साध्वी सर्वान्कामानवाप्नुयात् ॥ ४ ॥
दम्पती भोज येद्यस्तु पायसैः शर्करादिभिः ॥
गौरीसहस्रभोज्यस्य दत्तस्य फलमाप्नुयात् ॥ ५ ॥
सुवर्णपादुका देया तत्र विप्राय शीलिने ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देवमातृगौरीमाहात्म्यवर्णनन्नाम पञ्चा शीत्युत्तरशततमोऽध्यायः ॥ १८५ ॥ ॥ छ ॥