॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्पुष्पदन्तेश्वरं शुभम् ॥
पुष्पदन्तेश्वरोनाम गणेशः शङ्करस्य तु ॥१॥
तेन तप्तं तपो घोरं तत्र लिङ्गं प्रतिष्ठितम् ॥ २ ॥
तं दृष्ट्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥
प्राप्नुयादीप्सितान्कामानिह लोके परत्र च ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्पदन्तेश्वर माहात्म्यवर्णनन्नामाशीत्युत्तरशततमोऽध्यायः ॥ १८० ॥