॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं पापप्रणाशनम् ॥
सिद्धेशाद्दक्षिणे कोणे धनुषां त्रितये स्थितम् ॥
माण्डव्येश्वरनामानं महापातकनाशनम् ॥ १ ॥
माघे मासे चतुर्दश्यां पूजां जागरणं तथा ॥
कुर्याद्योऽतीन्द्रियो मर्त्यो न स मर्त्ये पुनर्व्रजेत् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये माण्डव्येश्वरमाहात्म्यवर्णनन्नामैकोना शीत्युत्तरशततमोऽध्यायः ॥ १७९ ॥