१७८ भार्गवेश्वरमाहात्म्यवर्णनम्-

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्माद्दक्षिणतः स्थितम् ॥
भार्गवेश्वरनामानं सर्वपापप्रणाशनम् ॥ १ ॥
यस्तं पूजयते देवि दिव्यपुष्पोपहारकैः ॥
स भवेत्कृतकृत्यस्तु सर्वकामैः समृद्धिमान् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भार्गवेश्वरमाहात्म्यवर्णनम्- नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥ ॥ १७८ ॥