१७६ सिद्धेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥ ॥
ततो गच्छेन्महादेवि सिद्धेश्वरमिति स्मृतम् ॥
अर्कस्थलात्तथाऽऽग्नेय्यां नातिदूरे व्यवस्थितम् ॥ १ ॥
अष्टादश सहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥
तस्मिल्ँलिङ्गे तु सिद्धानि सिद्धेश्वरमतः स्मृतम् ॥ २ ॥
स्नात्वाऽर्चयेन्नरो भक्त्या सोपवासो जितेन्द्रियः ॥
सम्पूज्य विधिवद्देवं दद्याद्विप्रेषु दक्षिणाम् ॥
सर्वकामसमृद्धस्तु स याति परमं पदम् ॥ । ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहरूया संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनन्नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥ १७६ ॥