॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्माद्दक्षिणतः स्थितम् ॥
लक्ष्मणेशाच्च पूर्वस्मिल्ँलिङ्गमष्टकुलेश्वरम् ॥ १ ॥
सर्वपापप्रशमनं महाविषप्रणाशनम् ॥
पूजितं सिद्धगन्धर्वैर्वाञ्छितार्थप्रदायकम् ॥ २ ॥
यस्तं पूजयते मर्त्यः कृष्णाष्टम्यां विधानतः ॥
स मुक्तः पातकैर्घोरैर्नागलोके महीयते ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽष्टकुलेश्वरमाहात्म्यवर्णनन्नाम द्विषष्ट्युत्तर शततमोऽध्यायः ॥ १६२ ॥