॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अनङ्गेश्वरमुत्तमम् ॥
रत्नेश्वरादग्रतःस्थं धनुषान्तरमास्थितम् ॥ १ ॥
स्थापितं कामदेवेन तल्लिङ्गं विष्णुसूनुना ॥
ज्ञात्वा तद्वैष्णवं स्थानं कलौ पातकनाशनम् ॥ २ ॥
तं दृष्ट्वा पूजयित्वा तु कामदेवसमो भवेत् ॥
स्वर्गविद्याधरीणां च जायते चित्तमोहकः ॥ ३ ॥
तस्यान्वयेऽपि न भवेत्कुरूपो दुर्भगोऽपि वा ॥ ४ ॥
तत्रानङ्गत्रयोदश्यां व्रतेन वरवर्णिनि ॥
विशेषाराधनं तत्र जन्मसाफल्यकारणम् ॥ ५ ॥
शय्यादानं तु दातव्यं तत्र विप्राय शीलिने ॥
विशेषाद्विष्णुभक्ताय सम्यग्यात्राफलं लभेत् ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्येऽनङ्गेश्वरमाहात्म्यवर्णनन्नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५८ ॥