॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि सत्यभामेश्वरं शुभम् ॥
रत्नेश्वराद्दक्षिणे तु धनुषान्तरमास्थितम् ॥ १ ॥
सर्वपापप्रशमनं स्थापितं सत्यभामया ॥
कृष्णस्य कान्तया देवि रूपौदार्यसमेतया ॥ २ ॥
स्नात्वा तद्वैष्णवं स्थानं नृणां पातकनाशनम् ॥ ३ ॥
माघे मासि तृतीयायां नारी वा पुरुषोऽपि वा ॥
यस्तं पूजयते भक्त्या स मुक्तः पातकैर्भवेत् ॥ ४ ॥
दौर्भाग्यदुःखशोकेभ्यस्तथा विघ्नैश्च दुःखितः ॥
मुच्यते नात्र सन्देहः सत्यभामान्वितो भवेत् ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सत्यभामेश्वरमाहात्म्यवर्णनन्नाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५७ ॥