॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वैनतेयप्रतिष्ठितम् ॥
रत्नेश्वरादुत्तरतो धनुषां त्रितये स्थितम् ॥ १ ॥
वैनतेयश्च देवेशि ज्ञात्वा क्षेत्रं तु वैष्णवम् ॥
लिङ्गं प्रतिष्ठयामास सर्वपापप्रणाशनम् ॥ २ ॥
यस्तं पूजयते भक्त्या पञ्चम्यां तु विधानतः ॥
न विषं क्रमते तस्य सप्त जन्मानि सर्पजम् ॥ ३ ॥
पञ्चामृतेन संस्नाप्य पूजयित्वा विधानतः ॥
प्राप्नुयात्सकलं पुण्यं मोदते दिवि देववत् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्ये गरुडेश्वरमाहात्म्यवर्णनन्नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥