॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं पापविमोचनम् ॥
हिरण्येश्वरवायव्ये धनुषां त्रितये स्थितम् ॥ १ ॥
पापघ्नं सर्वजन्तूनां दर्शनात्स्पर्शनादपि ॥
आद्यं लिङ्गं महादेवि गायत्र्या सम्प्रतिष्ठितम् ॥ २ ॥
तल्लिङ्गं समनुप्राप्य गायत्रीं जपते तु यः ॥
ब्राह्मणस्तु शुचिर्भूत्वा मुच्यते दुष्प्रतिग्रहात् ॥ ३ ॥
ज्येष्ठस्य पूर्णिमायां तु दम्पती यस्तु भोजयेत् ॥
परिधाप्य यथाशक्त्या दौर्भाग्यैर्मुच्यते नरः ॥ ४ ॥
गन्धपुष्पोपहारैश्च पौर्णमास्यां तु योऽर्चयेत् ॥
ब्राह्मण्यं जायते तस्य सप्त जन्मानि सुन्दरि ॥ ५ ॥
इत्येवं कथितं देवि माहात्म्यं पापनाशनम् ॥
ब्रह्मकुण्डप्रसादेन सारात्सारतरं प्रिये ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये गायत्रीश्वरमाहात्म्यवर्णनन्नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥