॥ ईश्वर उवाच ॥ ॥
ततो ब्रह्मेश्वरं गच्छेत्तस्य दक्षिणतः स्थितम् ॥
ब्रह्मणा स्थापितं पूर्वं ब्रह्मकुण्डसमीपतः ॥
त्रिषु लोकेषु विख्यातं रक्ष्यमाणं गणैर्मम ॥ १ ॥
तत्र स्नात्वा चतुर्दश्याममावास्यां विशेषतः ॥
श्राद्धं च विधिवत्कृत्वा ब्रह्मेशं पूजयेत्ततः ॥ २ ॥
विप्रेभ्यः काञ्चनं दद्यात्प्रीतये शङ्करस्य च ॥ ३ ॥
एवं कृत्वा नरो देवि लभते जन्मनः फलम् ॥
विपुलां कीर्तिमायाति मोदते ब्रह्मणा प्रिये ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनन्नाम पञ्चाशदु त्तरशततमोऽध्यायः ॥ १५० ॥