॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येद्विघ्नेशं पापनाशनम् ॥
गजकुम्भोदरं नाम सर्वसिद्धिप्रदायकम् ॥ १ ॥
तत्र कुण्डे नरः स्नात्वा चतुर्थ्यां प्रयतात्मवान् ॥
पूजयेद्यस्तु तं भक्त्या विघ्नेशस्तस्य तुष्यति ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गजकुम्भोदरमाहात्म्यवर्णनन्नाम पञ्चचत्वा रिंशदुत्तरशततमोऽध्यायः ॥ १४५ ॥