१४२ माहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चित्रेश्वर मनुत्तमम्॥
धनुषां सप्तके तस्य स्थितमाग्नेयदक्षिणे ॥ १ ॥
लिङ्गं महाप्रभावं हि सर्वपातकनाशनम् ॥
तत्र चित्रेश्वरं पूज्य नरकान्न भवेद्भयम् ॥ २ ॥
पटस्थितं तस्य पापं चित्रो मार्जयति प्रिये ॥
तस्मात्सर्वप्रयत्नेन चित्रेशं पूजयेत्सदा ॥
यः स्यात्पापयुतो वापि नरकं नैव पश्यति ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रेश्वर माहात्म्यवर्णनन्नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४२ ॥