१४१ कपर्दिचिन्तामणिमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कपर्दी यत्र संस्थितः ॥
तस्यैव उत्तरे भागे नातिदूरे व्यवस्थितः ॥
चिन्तितार्थप्रदो देवि चिन्तामणिरिवापरः ॥ १ ॥
चतुर्थ्यां तं तु देवेशि अङ्गारकदिने पुनः ॥
स्नापयित्वा तु सम्पूज्य नैवेद्यैर्विविधैः शुभैः ॥
सन्तर्प्य विघ्नराजेशं सर्वान्कामानवाप्नुयात् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपर्दिचिन्तामणिमाहात्म्यवर्णनं नामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥