॥ ईश्वर उवाच ॥ ॥
तस्यैव पश्चिमे भागे धनुपां पञ्चके स्थितम् ॥
तृणबिन्द्वीश्वरन्नाम तीव्रभक्त्या प्रतिष्ठितम् ॥ १ ॥
कृत्वा महत्तपो देवि तृणबिन्दुमु नीश्वरः ॥
मासिमासि कुशाग्रेण जलबिन्दुं निपीय वै ॥ २ ॥
संवत्सराण्यनेकानि एवमाराध्य चेश्वरम् ॥
सम्प्राप्तं परमां सिद्धिं क्षेत्रे प्राभासिके शुभे ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तृणबिन्द्वीश्वरमाहात्म्य वर्णनन्नामाष्टात्रिंशदुत्तरशततमोऽध्यायः ॥ १३८ ॥