१३७ कङ्कालभैरवक्षेत्रपालमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्क्षेत्रपालमनुत्तमम् ॥
कङ्कालभैरवन्नाम भैरवेण नियोजितम् ॥
तस्य क्षेत्रस्य रक्षार्थं प्राणिनां दुष्टचेतसाम् ॥ १ ॥
श्रावणे शुक्लपञ्चम्यामष्टम्यामाश्विनस्य च ॥
यस्तं पूजयते भक्त्या बलिपुष्पादिभिः क्रमात् ॥ २ ॥
तस्य क्षेत्रे निवसतः पुष्करस्य महात्मनः ॥
निर्विघ्नकारी भवति तथा रक्षति पुत्रवत् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कङ्कालभैरवक्षेत्रपालमाहात्म्यवर्णनन्नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥ १३७ ॥