॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महालिङ्गं महादेवि सुरप्रियम् ॥
रावणेश्वरवायव्ये धनुषां त्रिंशकेऽन्तरे ॥ १ ॥
स्थितं कामप्रदं लिङ्गं सर्वपातकनाशनम् ॥
पौलोमीश्वरनामाढचं पौलोम्या सम्प्रतिष्ठितम् ॥ २ ॥
तारकेण यदा ध्वस्तास्त्रिदशाः सङ्गरे स्थिताः ॥
त्रैलोक्यं विहृतं सर्वं स्वयमिन्द्रत्वमागतः ॥ ३ ॥
तदा शक्रः सुदुःखार्तो भयोद्विग्नो ननाश वै ॥
तदा तद्भार्यया देवि इन्द्राण्या शोककर्षया ॥ ४ ॥
इन्द्रस्य जयमिच्छन्त्या शम्भुराराधितस्तया ॥
ततस्तुष्टो महादेवस्तामुवाच शुभेक्षणाम्॥ ५ ॥
॥ भगवानुवाच ॥ ॥
उत्पत्स्यति सुतोऽस्माकं षण्मुखस्तु महाबलः ॥
तारकं दैत्यराजानं स चैनं घातयिष्यति ॥ ६ ॥
गच्छ त्वं विज्वरा भूत्वा शृणु भूयो वचश्च मे ॥ ७ ॥
अत्र स्थितमिदं लिङ्गं योऽस्माकं पूजयिष्यति ॥
स नूनं मे गणो भूत्वा मत्सकाशमुपेष्यति ॥ ८ ॥
एवमुक्ता गता साध्वी देवराड्यत्र संस्थितः ॥
सर्वद्दुःखविनिर्मुक्ता सर्वदैत्यभयोज्झिता ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पौलोमोश्वरमाहात्म्यवर्णनन्नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥ १२५ ॥